SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । एतस्य लाञ्छनतनुच्छविदेहमान नामानुवादजननीजनकाभिधानः ।। स्तोष्ये जिनानहमिमान् वलये स्थितांश्च षष्ठेऽधुनेह परितो हितहेतवेऽपि ॥ ६८ ॥ श्रीनाभिभूपमरुदेविभवो वृषाङ्को गाङ्गेयगोरशरपश्चधनुःप्रमाणः । संसारसागरवितारतरी विनेता स्वामी शिवं दिशतु मे स युगादिनाथः ॥ ६९ ॥ भष्टापढद्यतिधरो द्विरदेन्द्रचिन्हः पश्चाशतीशतचतुष्टयचापतुङ्गः । दद्यान्मतानि विजयाजितशत्रुपुत्रो ऽयोध्याजनिर्जिनपतिस्त्वजितो द्वितीयः ॥ ७० ॥ गाङ्गेयभः शत चतुष्टयचापदेहः श्रावस्तिपःकृतजनिस्तुरगाङ्किताङ्गः । सेनाजितारितनयो विनयानतोऽयं श्रीसम्भवः प्रभवताच्छिवतातये वः ॥ ७१॥ सिद्धार्थसंवरसुतः कपिपोतचिन्हो ऽयोध्याजनिर्मथितमन्मथसङ्कथस्तु । हेमधुतिः खशरवन्हिधनुःशरीर मानोऽभिनन्दन जनो भविनः पुनातु ॥ २ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy