________________
श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र
भद्रासना हिमसमा वरजापमाला
पाणिः सुगन्धिरिह शूलफलाभ्युपेता। श्रेता मरालगमना सुममालिनी शं
दधादसिं वरफलं फलकं वहन्ती ।। ६३ ॥ कुष्माण्डिनी कनककान्तिरिभारियाना
पाशाम्रलुम्बिसणिसत्फलमावहन्ती । पुत्रद्वयं करकटीतटगं च नेमि
नाथक्रमाम्बुजयुगं शिवदा नमन्ती ॥ ६ ॥ पद्मावती भुजगराजवधूर्विधूत
विघ्ना सुवर्णतनुकुर्कुटसर्पयाना । पाशाम्बुजाश्चितकरा त्रिकणाढयमौलि:
. पायात् फलाङ्कुशविराजितवामपाणिः ।। ६५॥ सिद्धार्थका नवतमालदलालिनील
रुक पुस्तिकाभयकरा नखरायुधाङ्का । वीणाफलाकितभुजद्वितया हि भव्या
नव्याजिनेन्द्रपदपडकजबद्धभक्तिः ॥६६॥ श्रीअश्वसेनतनयं विनयावनम्रा
ध्यायन्ति ये स्वहृदये विगतान्यकृत्याः । यक्षाङ्गना जिनपतीनिव तान्नताङ्गयआराधयन्ति सततं दुरितं हरन्त्यः ॥ ६ ॥
इति यक्षिण्यः ।