________________
सूरिविरचितः]
श्रीमन्त्राधिराजकल्पः ।
ही शरीररहितोऽपि हिताय सिंहिकासुत इतोऽपि जिनेशम् । पश्यति प्रतिकलं कलभक्तिः स्यन्दनं तिमिरभो ह्यधिरूढः ॥ १०३ देवदेवमभिवन्दति केतुः पातकाम्बुनिधिबन्धनसेतुः ।
खड्गपाणिरिह पादतलस्थचित्रवर्ण इव कल्मुषमालः ॥ १०४ ॥ ये जिनं निजमनस्युरुभक्तिव्यक्तरोमनि वहाङ्कुरसाराः । संवहन्ति विषमा अपि तेषां खेचरा मुदमिवेह वयस्याः ॥ १०५ ॥ इति ग्रहनवकम् । बहुनेत्रसम्भववपुर्भगतां शमितुं जिनेन्द्र ! चरणौ शरणम् । तव देवराडिव नवस्तवनं कुरुतेऽनिशं समभिगम्य मुदा ॥ १०६ ॥ निजतापसम्पदभितः शमितुं तव सेवते चरणयुग्ममिव । अनलस्फुलिङ्गपटलाकुलितं वपुरुद्वहनिह महः खचितम् ॥ १०७ ॥ वहु जन्तुघातततपातकतोऽञ्जननिभं महिषयानगतिः ।
पुरुद्वहन्निव नवस्तवकृत् तव च दण्डपाणिरिह तच्छभितुम् ॥ १०८ ॥ सकलाम्बुदद्यतिरिव स्तुतिकृत् तव देव ! पादयुगलं नमति । नृकपालपाणिरिव रौद्ररसं शमितुं श्रितः प्रशमवारिनिधेः ॥ १०९ ॥ निनाद ते जडपतिर्वरुणरश्चरणस्तुतिं बत जिनाऽयि कथम् ? | तव भक्तिरेव मुखरीकुरुते त्वथवा जनं जडमपीह विभो ! ॥ ११० ॥ चपलकुरङ्गतराशुबलः पवनः स्मवन्नमति श्रयति । तव पादयुग्ममत एव जगत्तदशु स्वरूपमतदेव जिन ! ॥ १११ ॥ घनदोऽन्धकारचितिहिताश्रयतोऽस्यभवत् कुबेर इति नामयुतः । प्रभजन् पदे हि तव पुण्यनिधेर्विदितस्तु पुण्यजनराडिति सः ॥ ११२ ॥
१७
२५७