SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ K श्रीजेनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र सारङ्गसंस्था हिमरोचिराभा भृङ्गारखङ्गाभयखेटकाङ्का । श्रीमानसी यापि मद्देति पूर्वा सा देवता नो दुरितानि इन्तु ॥ १८ द्विरे विद्यावरदेवतानां स्पष्टाक्षरं स्तोत्रमिदं पठेत् यः । स प्रीतियोगं लभते मनुष्यः श्रीपार्श्वतः सागरचन्द्ररूपम् ॥१९॥ वामासुतक्रमकुशेशयभृङ्गभावं ये बिभ्रतीह भविका मुदिताशयास्तु | तेषां गृहेषु दुरितप्रकरंहरन्त्य स्तन्वन्ति शान्तिकममूखिदशाङ्गना हि ॥ २० ॥ इति विद्यादेव्यः | ततस्तृतीये वलये ह्यमुप्य स्थिताश्चतुर्विंशतिकोष्ठकेषु । स्तवीमि सर्वज्ञततेः सवित्रीर्जगत्रयोवन्दितपादपद्माः ॥ २१ ॥ श्रीमरुदेवी विजया सेना देवी ततश्च सिद्धार्था । स्यान्मङ्गला सुसीमा पृथिव्यथो लक्ष्मणा देवी ॥ २२ ॥ रामा नन्दा विष्णुर्जया ततः श्यामिकाथ सुयशा च । स्यात् सुव्रताऽचिरापि श्रीरथ देवी प्रभावती पद्मा ॥ २३ ॥ वप्रा शिवाथ वामा त्रिशला देवी च .... जिनजननीः । निजनिजपुत्रसमेता एताः सन्ततमहं नौमि ॥ २४ ॥ इति जिनजनन्यः । तुर्ये जिनेन्द्रवलये जलधिद्वि २४ कोष्ठे यक्षान् जिनेन्द्रपदपङ्कजचश्चरीकान् ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy