________________
सूरिविराजितः ]
मन्त्रविकल्पः ।
रक्ताब्जवद्धासनसंख्थितिर्या हेमप्रभा खेटकखहस्ता ।
बीजपूराभवदानशस्ला नृदत्तनाम्नी दुरितानि हन्तु ॥ ८ ॥
२१
घनाघनाभा कमलासनस्था त्रिशूलमालावरमुङ्गराङ्का । काली कलाभासुरसच्छरीरा सा देवता नो दुरितानि हन्तु ||९||
कलापिकण्ठावलिनीलदेहा सरजमालावरघण्टिकाङ्का । नृपृष्ठसंस्था तु महेतिपूर्वा सा कालिका जो दुरितानि हन्तु ॥ १०॥ उत्तप्तजाम्बूनदमूर्तिकान्तिः ककुभवाहाभिरता वराङ्गी |
अब्जक्षमालावरदण्डहस्ता गौरीति देवी दुरितानि हन्तु ॥ ११ ॥ धाराधराकारशरीरयष्टिः सहस्रपत्रासनसंस्थिना या ।
त्रिशूलदण्डाभयदानहस्ता गान्धारिदेवी दुरितानि हन्तु ॥ १२ ॥
श्वेतच्छदस्था सितरोचिरङ्गा चतुर्भुजन्यस्तसरीसृपाका ! चतुर्भुजा या तु महेतिपूर्वा ज्वालाभिधाना दुरितानि हन्तु ॥ १३ ॥
या भिन्नवर्णा कमलासनस्था वृक्षाक्षमालावरदानपाणिः । सा मानवी मानवनम्य पादपद्मद्वया नो दुरितानि हन्तु ॥ १४ ॥ विहङ्गराजासनबद्धसंस्था पयोधराभा भुजगेन्द्रपत्नी | फणोन्द्रयुग्मासिसुखेटकाङ्का वैरोट्यदेवी दुरितानि हन्तु ॥ १५ ॥ तुरङ्गवाहा सितनित्यकाया खङ्गासिपत्रीशरखेटकाङ्का । या जातरूपप्रतिजातरूपा अच्छुप्तदेवो दुरितानि हन्तु ॥ १६ ॥ हेमांशुचिः प्रतिमा नितान्त श्वेतच्छेदस्था धृतशूलमाला । वर प्रसन्नाननपूर्णचन्द्रा सा मानसी नो दुरितानि हन्तु ॥ १७ ॥
१- मानुषी क ।
१६