________________
जनस्तानसन्दा
~
vvvv
श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र
तृतीयः पटलः । भक्तिप्रहेन्द्रालीवन्धः फणिपरिवृढफणनिवहैः कृतातपवारणः
श्रीमत्पार्श्वस्त्रैलोक्यकक्षितिहरणविहितसुमतिर्हताधततिर्जिनः प्राज्यस्फूर्जकर्मस्तम्भेरमगणकटदलनहरिविनीलतनुच्छविवित्तं कीर्ति सिद्धिं दद्यादतिशयसमुदयसहितो जितातुलमोहभ (8)॥
___ भुजङ्गविजृम्भितवृत्तम् । मन्त्राधिराजवलये विमले द्वितीये
षट्चन्द्रकोष्ठकयुते १६ परितः स्थिताश्च । विद्यासुरी रसविधि १६ प्रमिता हि युक्ता
वर्णास्त्रवाहनभुजैरथ संस्तवीमि ॥ २ ॥ गोवाहना कुन्दसमानवर्णा चापाक्षमालाशरशङ्खहस्ता । चतुर्भुजा भूषणभूषिताङ्गी सा रोहिणी नो दुरितानि हन्तु ॥ ३॥ त्रिशूलदण्डाभयबीजपूर-हस्ता प्रशस्ता वरलोहिताङ्गी । या देवता प्रज्ञपतीति नाम्नी सर्गासनस्था दुरितानि हन्तु ॥४॥ श्वेतद्युतिर्या वरदानपद्मसत्शृङ्गलारुद्चभुजा........भा । या वज्रपूर्वा भुवि श्रृंखलाख्या पद्मासनस्था दुरितानि हन्तु ॥५॥ नाम्बूनदाभा गजगामिनी हि फलाक्षमालाङ्कशशूलपाणिः। . अनेकदेवाभिनता नताङ्गी वज्राङ्कुशी नो दुरितानि हन्तु ॥६॥ या भिन्नवर्णा नरवाहनस्था भुजैश्चतुर्भिकृतभव्यचक्रा । विभूषणालङ्कृतदेहभागा चक्रेश्वरी नो दुरितानि हन्तु ॥ ७ ॥