________________
सूरिविरचितः] श्रीमन्त्राधिराजकस्पः । २४३ वर्णासनाननभुजायुधकीर्तनेन
स्तोष्यामि कामितददानहमादरेण ॥ २५ ॥ हेमच्छविर्गजगतिर्वरजापमाला
संयुक्तदक्षिणकरो वृषभस्य भक्तः । सन्मातुलिङ्गकलपाशगवामपाणि
दद्यात् सुखानि मम गोमुखयक्षराजः ॥२६॥ श्यामो गजेन्द्रवदनो वरतुर्यवक्त्रो
__ याम्येऽक्षदामवरमुद्गरपाशपाणिः । सन्मातुलिङ्गशृणिशक्त्यभयाङ्कवाम
पाणिमहोदयदयक्षवरः सदा(वो)ऽस्तु ॥ २७ ॥ धाराधरच्छविरवत्वभयाहिशत्रु
रङ्गद्गदायुगपसव्यभुजस्त्रिनेत्रः । नागाक्षसूत्रफलवामकरः शरीरं
सर्पासनस्थितिरयं त्रिमुखो मदीयम् ॥ २८॥ श्यामो गजेन्द्रगतिरीश्वरनामधेयः
: सन्मातुलिङ्गजपमालिकयाक्तहस्तः । बञ्चकुशप्रवरवामकरः पुनातु
तुर्योऽभिनन्दनजिनक्रमपद्मभृङ्गः ॥ २९ ।। शीतद्युतिच्छवितनुर्वरशक्तियुक्त
हस्तो गदोरगपपाशगवामपाणिः । यो वैनतेयगमनो दुरितापहारी
यक्षः स तुम्बर इह प्रथितप्रभावः ॥ ३०॥