SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । विमलो हनन्तजिनो धर्मः श्रीशान्तितीयकृत् । कुन्थुनाथो हरजिनो नमिनाथो वीर इत्यपि ॥ ३५ ॥ ईकारे संस्थितौ पार्श्वमल्ली नीलौ जिनेश्वरौ । पद्मप्रभवासुपूज्यावरुणाभौ कलास्थितौ ॥ ३६॥ सुव्रतो नेमिनाथस्तु कृष्णाभौ विन्दुसंस्थितौ । चन्द्रप्रभपुष्पदन्तौ नादस्थौ कुन्दसुन्दरौ ॥ ३७ ॥ हितं जयावहं भद्रं कल्याणं मङ्गलं शिवम् । तुष्टिपुष्टिकरं सिद्धिप्रदं निर्वृतिकारणम् ॥ ३८॥ निर्वाणाभयदं स्वस्तिशुभधृतिरतिप्रदम् । मतिबुद्धिप्रदं लक्ष्मीवर्द्धनं सम्पदां पदम् ॥ ३९ ॥ त्रैलोक्याक्षरमेनं ये संस्मरन्तीह योगिनः । नश्यत्यवश्यमेतेषामिहामुत्रभवं भयम् ॥ ४०॥ द्वाविंशतितमो वर्णः पञ्चमस्वरसंयुतः । धूम्रवर्णो जिनेन्द्रस्य लिङ्गस्थानाग्रतः स्थितः ॥ ११ ॥ वामेयदक्षिणे पादे रुद्रसङ्ख्याक्षरः स्वरः । हेमवर्णा जानुकटयोविमावेव सङ्गतौ ॥ ४२ ॥ खान्तं लान्तसमायुक्तः साकाशश्यामलद्युतिम् । वामेयदक्षिणे कुक्षौ मरुद्वर्ण विचिन्तयेत् ॥ १३ ॥ साकारं नीलवर्ण तु त्र्यधिकत्रिंशदक्षरम् । विचिन्तयेज्जिनेन्द्रस्य संस्थितं दक्षिणे करे ॥ ४४ ॥ चिन्त्यमानमिदं वर्णषकं च संस्मृतं सदा । योगिभिर्व्यानिभिःपूर्णैर्जिनधर्मपरायणैः ॥ ४५ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy