SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २३८ श्रीजैनस्तोत्र सन्दोहे [ श्री सागरचन्द्र - तोयानिलविषादीनां ग्रहराजाजिरक्षसाम् । अरातिमारिदस्यूनां श्वापदानां भयं हरेत् ॥ ४६ ॥ श्री पार्श्वनाथवक्षोजयुग्मे कुन्दसमद्युती । रुद्रार्यस्वरौ चिन्त्यावाद्यस्याधिपतिर्जया ॥ ४७ ॥ शिवा शान्तिकरी तुष्टिपुष्टिस्वस्तिकरी हि सा । विजयान्यस्य वर्णस्य ते चामरपरे उभे ॥ ४८ ॥ कालमक्षरमूर्ध्नि कोणे रेखोपरि स्थितम् । हिमेन्दुकृन्दसङ्काशं पार्श्वनाथस्य चिन्तयेत् ॥ ४९ ॥ जातरूपसमाकारा यन्त्ररेखासु कारयेत् । मन्त्रयन्त्रात्मकं पार्श्वमित्थं योगी विचिन्तयेत् ॥ ५० ॥ वामक सशिखरस्य तु मध्यगो ह्रीं हामङ्गदौ हू इति कूर्परमध्यदेशे । यः कूर्पराग्रवसतिस्तु कला चिकास्थो नामेरो विहितः स्फुटपार्श्वनाथः ॥ ५१ ॥ दक्षिणा घविशालकला चिकान्तः यः कूर्परान्तरगतोऽवनदग्रगष्ठः । स्वा बाहुरक्षकमयः शुभहांसकाना स्वन्मध्य उमिति कृतप्रकृतिः श्रियेऽस्तु ॥ ५२ ॥ नादाग्रबिन्दुतलचन्द्रकलाशिरस्क - ब्रह्मस्वरूपममलं जिन पार्श्वनाथम् । रम्भादलाभवपुषं हि निजे ललाटे ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ॥ ५३ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy