SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २३६ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र. शून्यवन्ाक्षरभवः प्रभवः सर्वसम्पदाम् । नादबिन्दुकलोपेतः साकारः पञ्चवर्णरुक् ।। २५ ।। वामातनूजवामांससंस्थितो रूपकीर्तिदः । घनपुण्यप्रयत्नानि जयज्ञाने ददात्यसौ ।। २६ ॥ स एवेस्वरसंयुक्तः स्थितो हस्ते जिनेशितुः । योगिभिर्थ्यायमानस्तु रक्ताभोऽतिशयप्रदः ॥ २७ ॥ षष्ठस्वरयुतोऽरिघ्नो धूम्रवर्णः स एव हि । पूज्यतां विजयं रक्षां दत्ते ध्यातोऽस्य कुक्षिगः ॥ २८ ॥ विसर्गद्वयसंयुक्तः स एव श्यामलयतिः । जिनवामकटीसंस्थः प्रत्यूहव्यूहनाशनः ॥ २९ ॥ सर्वाशिवप्रशमनोऽञ्जनकान्तिर्विसर्गयुक | वामजानुस्थितो ध्यातः षडविंशतितमोऽक्षरः ॥ ३० ॥ > वामेयवामचरणे पीतवर्णः कषात्मकः । पिशाचग्रहभूतानां शाकिनीनां प्रमर्दनः ॥ ३१ ॥ सुवर्णभरहं नीलवणे कारसमन्वितम् । रक्तं प्रसकलं श्यामबिन्दुं कुंभन्दनादयुक् ॥ ३२ ॥ नाभिपद्मस्थितं ध्यायेत् पञ्चवर्ण जिनेशितुः । तस्थुरे षोडशामी सुवर्णद्युतयो जिनाः ॥ ३३ ॥ ऋषभोऽप्यजितस्वामी सम्भवोऽप्यभिनन्दन: । सुमतिः श्रीसुपार्श्वः श्रीश्रेयांसः शीतलोऽपि च ॥ ३४ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy