________________
२२९
सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । कान्याध्वनि प्रवसतामिह सत्कवीनां
वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णेजपः प्रकृतितः कलुषाशयोऽपि
चित्रं तु दक्षिणरवः प्रतिकूलताहत् ॥१०॥ निर्यातमन्धितलतो हरकण्ठमाप्य
पीयूषदीधितियुतं तु विहाय मन्ये । सालिदुर्जनकुलेषु विषं सुखेन
तस्थौ मुखाङ्कटमनःस मुदाऽऽस नन्दि ॥११॥ पक्षद्वयेऽपि मलिनः खलकौशिकोऽयं
दोषाकरेऽपि हि कलङ्किनि बद्धरागः । वित्रासहेतुरपि वामरवोऽपि बाद
काव्याध्वनि प्रवसतामिह हर्षकारी ॥ १२ ॥ साधौ सुधारसलसद्वचनप्रताने
क कालकूटनिवहस्य खलस्य चिन्ता ? । प्रद्योतने घुतिमतीव वितन्वतीह
जागर्ति किं जगति कस्तमसोऽवकाश: ? ॥ १३ ॥ अब्धौ विधौ मखविधौ फणमृन्निवासे
मोहात् सुधामिह मुधा विबुधा वदन्ति । क्षारे क्षयिण्यथ शिखिप्रहते विषार्ते
सास्त्येव सत्यपकृताखिललोकशोके ॥ १४ ॥