________________
श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्र
शक्तस्तव स्तवनमस्तगुणौघसङ्खय !
वाचस्पतेरपि समानमतिर्न कर्तुम् । मीनाति वीतमतिकः सिकताकणान् कः
___ कूलङ्कषाविपुलकूलतले सुराणाम् ॥ १५ ॥ निर्दोषतो बत नरोऽतिबलो विदन्तो
दन्तीव शूकर इवातिवपुर्विदंष्ट्र । चक्रीव दैवतवपुर्जितशत्रुजातः
सजातवित्तविभवः पुरुषश्वकास्ति ॥ १६ ॥ केचित् सुरा इह भवे हितमाचरन्ति
नामुत्र केचिदिह नो परलोक एव । वामासुतः पुनरसाविह विघ्नहर्ता
दाता श्रियां परभवे शिवसौख्यकर्ता ॥ १७ ॥ बालोऽपि देवततिसंस्तुतपादपद्म
युग्मस्य संस्तवनमस्य ततः करिष्ये । मन्त्राधिराजजिनभर्तुरमर्त्यनागे किं माद्यतीह न गजाः प्रमदा भवन्ति ? ॥ १८ ॥
इति प्रस्तावना। दाता जितेन्द्रियचयोऽथनिरामयश्चा
ऽमायो दयार्दहृदयो विनयावनम्रः। स्नातः प्रशस्तदिवसे धृतधौतवस्त्रः
शिष्यो गृहीतफलपुष्पसमृद्धगन्धः ॥ १९ ॥