________________
२२८.
श्रीजैनस्तोत्रसन्दोहे [धीसागरचन्द्र
.
C
अज्ञोऽपि विज्ञजनविस्मयकारि काव्यं
यस्याः प्रसादलवमाप्य जनस्तनोति । मोहान्धकारनिकरार्ककरप्रभावा
सा भारती भवतु जाड्यतमछिदे वः ॥ ५॥ शून्यात्मकोऽहमपरं स्वकसङ्गतोऽपि
कुर्वनगण्यमिह पूर्वपदाधिका तु । सध्यां यदेकपुरतः स्थितिमाप्य लेभे
वन्देऽतिगीष्पतिगुरून् सुगुरून् मुदा तान् ॥६॥ दुष्कर्मकण्टककटुद्रुममूलभेद
नेमिप्रमं सुललितप्रभयाभिरामम् । सद्भावदेवविनतं गतकोपमानं
सानन्दमूर्जितमतिं सुगुरून् नमामि ॥ ७ ॥ वाचालयत्यनुकलं सकलं जिनेन्द्र
भक्तिस्ततोऽहममतिः स्तवने प्रवृत्तः । सद्भिः प्रशान्तमतिमद्भिरतो विमृश्य
सेयं मनो नहि विधेयमिहाऽञ्जलिस्तत् ॥ ८ ॥ काव्ये मुधाकृतसुधालहरोसमूहे
दोषेक्षिणः खलु खलाः सततं भवन्ति । स्वादून् मृदूनपि तरून् करभा विहाया
ऽपोच्छन्ति हा ! कटुककण्टकिनः करीरान् ॥ ९ ॥