________________
सूरिविरचित: ]
मन्त्राधिराज कल्पः ।
[ ६२ ]
श्रीसागरचन्द्रसूरिविरचित : श्रीमन्त्राधिराजकल्पः ।
श्री पार्श्वनाथाय नमः |
कल्याणाङ्कुरवारिदः शमसुधावाधै सुधादीधितिः कारुण्याम्बुजतिग्मरोचिरखिलक्ष्मापीठकल्पद्रुमः ।
मोहध्वान्तततिप्रदीपकलिका संसारनिस्तारकृत्
भव्यानां शिवतातिरस्तु भगवान् वामासुतोऽयं जिनः ॥ १ ॥
भ्रूभङ्गमङ्ग न दधे नयने न ताम्रे
दधे न शस्त्रमपि नो परुषं बभाषे ।
कामं जिगाय गतकायममाय एव
मेव प्रणम्रकमठः स शिवाय देवः ॥ २ ॥ प्रदाsशुचिरियं प्रथितेति दोषाद्
योषां हि संयमवधूवरागो हि हित्वा । बभ्राम मुक्तिललना गमने सरागो
नीरागतायुगपि यच्छतु शं स पार्श्वः ॥ ३ ॥
अन्तःस्फुरद्रुचिरसश्चितसप्ततत्त्व -
कोटीपतिर्जिन पतिः प्रकटध्वजोऽस्तु ।
वामासुतः फणमिषात् फणिपस्य विश्व
२२७
विश्वार्तिसंहतिहरो व्यवहारिवद् यः ॥ ४ ॥