________________
. श्रीजैनस्तोत्रसन्दोहे
[अक्षात
लोकत्रयस्मयमयामयनाशवैद्य !
सधस्त्वयैव निहतः स हि मोहराजः । आप्लाव्यतेऽपि जगदब्ध्युदकेन येन
पीतं न किं तदपि दुर्धरवाडवेन ? ॥ ११ ॥ नीचैर्विनम्य चतुरान् चरणारविन्दं । .. ये वन्दते विदधते तव कर्म नेतः ।। ते दूरतः कथमधोगमनं त्यजन्ति
चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥१२॥ युक्तं चिरेण परिलालितपालितानि
कर्माणि देव ! कषसीह समूलजालम् । नेतापि कृन्तति नितान्तमपायबुद्धया
नीलद्रुमाणि विपिनानि न किं हि मानी ? ॥ १३ ॥ देव ! त्वदन्रिकुसुमार्चनसंशयालोः
सिद्धान्तवारिधिविगाहनलीनबुद्धेः । सन्देहदावदहनोपशमे घनाभं
दक्षस्य सम्भवि पदं ननु कर्णिकायाः ॥ १४ ॥ पीत्वा गिरस्तव निरस्तरसान्तरास्ते
भव्याङ्गिनो दधति शान्तरसात्मकत्वम् । लोहाहयाः परिणता रसनायकेन
चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ दुष्टे दशस्वपि भवेषु विसष्टरोषे
तत्कालमेव कमठेऽतिशठेऽप्यवरः ।