SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ कर्तृकम् ] श्रीपार्वजिन स्तवनम् । स्वैरं व्यधाश्च हृदयं सदयं नयोऽयं यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ लोकत्रयीतनुगतं परमाणुदेशे शुक्लस्मृतिप्रबलमन्त्रबलान्निरुध्य | [ दुष्कर्म ? ] मर्मगरभेदकरं त्वदन्यः किं नाम नो विषविकारमपाकरोति ? ॥ १७ ॥ त्वामेव केवलचिदास्पद मन्यतीर्ध्या स्ते स्वस्वतोर्थपतयो हृदयेषु दध्युः । आधेयवस्तुमिलितः स्फटिकोऽमलः किं नो गृह्यते विविधवर्णविपर्ययेण ? वप्रत्रयोदयगिरीन्द्रशिरोऽधिरोह त्युत्रासयत्यसुमतां सुतमां तमांसि । मित्रे cafe व्रजति लोचनगोचरत्वं किं वा विबोधमुपयाति न जीवलोकः ? ॥ १९ ॥ नाराधयन्ति विधिना जिनशासनं ये ॥ १८ ॥ नाभ्यर्चयन्ति च रुचेः क्रमयामलं ते । ते दैवदूषितधियः सततं स्मरन्तो -२११ गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ यस्मै सविस्मयमुपाचि चिरं विरचि रस्मात स्मयमपास्य च चक्रपाणिः । श्रीवीतराग ! भवदागमवेदिनस्तद् भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥ २१ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy