SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कर्तृकम् ] श्रीपा जिमस्तवनम् । यूकायवैरथ रथत्रसरेणुभिश्च विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥ ५ ॥ ते कर्मभारगुरवः परवावदूका ये तावकीनवचनान्यपि संशयानाः । प्रामाण्यतस्तदुपयन्ति यदाचरन्ति जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ कल्याणकक्षणनिरीक्षणमस्तु ते तत् तकिंवदन्त्यपि सतां मुदमादधाति । यत्पमिनीप्रणयिनं भ्रमरं भ्रमन्तं प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७॥ सन्नह्य सह्यगुरु(गिरि)कुञ्जरवाजिराजि प्रेक्षपदाजिरसभाजि भवत्युपेते । म्लेच्छैरभाजि भुजगैरिव तैरुपान्त मभ्यागते वनशिखण्डिनि चन्दनस्य ॥८॥ स्वामिंस्तव क्षम ! ममापि मनागुपेक्षा मर्हन्ति नो गुणगणाः स्वकसेवकस्य । कामं कषायविषयैः परिमुष्यमाणा ___श्चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ मामीदृशं जडमति दृढभक्तिरेव ___ स्वामिस्तव स्तवविधौ त्वरयत्यवश्यम् । यत्तोयमुच्छलति तोयनिधेरगाध मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy