SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ -- श्रीनेजस्तोत्रसदोहे [६ ] कल्याणमन्दिरचरमचरणपूर्तिरूपं श्रीपार्श्वजिनस्तवनम् । कल्याणकेलिनिलयं विलयं वितन्वद् विघ्नावलेर्भवति को न कृती कृतार्थः । श्री 'पार्श्वदेव' भवतोऽङघ्रियुगं भवाब्धौ पोतायमानमभिनम्य जिनेश्वरस्य ॥ १॥ प्राश्चत्प्रभावपटहः पटुहर्षहेतु दन्ध्वन्यते त्रिजगदङ्गणरङ्गजीवः । अद्यापि यस्य भुवनादभुतवैभवस्य तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ नीचाः परेऽल्पमतयोऽनुभविष्णवोऽपि साक्षाद् भवद्गुणगणान् कथमुद्गृणन्तु । आजन्मवाग्विभववन्ध्यमुखः कदापि रूपं प्ररूपयति किं किल धर्मरश्मेः ॥ ३ ॥ स्वामन्तरेण विमलोज्ज्वलकेवलार्क कः प्रत्यलो हरिहरप्रभृतिः प्रमातुम । धर्मान् पदार्थनिवहस्य समानहो यत् मीयेत केन जलधेननु रत्नराशिः ॥४॥ वामेय ! गेयगरिमाढय ! भवत्प्रणीत विश्वप्रतीतवरवाङमयपारदृश्वा ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy