SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ शिष्याणुप्रणीतम् ] श्रीपार्श्वजिनस्तवनम् । २०७ निजसुरूपविनिर्जितमन्मथं विनतमानवदर्शितसत्पथम् । सकलसिद्धिकरं करुणापरं भजत पार्श्वजिनं जनशङ्करम् ॥ ३ ॥ कठिनकल्कविताननिवारक विकटसङ्कटकोटिविनाशकम् । निखिलविघ्नहरं श्रमणेश्वरं भजत पार्श्वजिनं जनशङ्करम् ।। ४ ॥ सकलसेवकनिर्मलबुद्धिदं कुमुदबान्धवकान्तगुणास्पदम् । धरणनाकिनतं परमेश्वरं भजत पार्श्वजिनं जनशङ्करम् ॥ ५॥ दुरितमानकदाग्रहखण्डनं कुमतिमोहमहारिपुभञ्जनम् । विगतदोषभरं सुखसागरं भजत पार्श्वजिनं जनशङ्करम् ॥६॥ विजितदुर्जयदर्पकदर्पकं प्रवरनिर्वृतिसत्पथदायकम् । रुचिरभक्तिविनम्रसुरासुरं भजत पार्श्वजिनं जनशङ्करम् ॥ ७ ॥ नलिनपुष्पविकस्वरलोचनं सकलमङ्गलवल्लिघनाघनम् । प्रवरलक्षणलक्षितसंवरं भजत पार्श्वजिनं जनशङ्करम् ॥ ८ ॥ प्रवरमङ्गलमण्डलसन्मुखं विमलकीर्तिविकाशितदिङ्मुखम् । विमलकेवलचारुदिवाकरं भजत पार्श्वजिनं जनशङ्करम् ॥ ९ ॥ इत्थं पार्श्वजिनेश्वरः स्तुतिपथं नीतो मया भक्तितः श्रेयःसन सदश्वसेननृपतेर्वशैकचूडामणिः । श्रीविधाविमलाभिधेयसुकवेः शिष्याणुना श्रेयसे सर्वारिष्टविनाशकस्तनुमतां देयात् सदा मङ्गलम् ॥१०॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy