________________
श्रीजैनस्तोत्रसन्दोहे
[ विद्याविमल
सम्मोहितोर्वीवलया लया लया मर्त्यप्रभास्वत्प्रमदा मदामदा । ध्यानं न जहे भवतोऽवतो वतोदारा मरीचीः किरणे रणे रणे ॥५॥ विभो | भवन्तं जनता नता नता मसावलीवैपदरा दरा दराः । चिक्षेप किं भक्तिमती मती मती सम्बिभ्रती सद्विरती रतीः रती ॥ ६ ॥ भवत्प्रभावाच्छमधामधामधा पुनर्भवे सद्वगरं गरं गरम् ।
बिभ्रद् गुणौघं कमितामितामिता क्षयं न किं मुक्तिजिनाजिनाजिनाः॥७ सर्वे नराः शर्मधरा धरा धरा इवाप्तभीजन्त्वसुरासुराः सुराः । स्पष्टीकृता पुण्यमया मया मया युक्तं त्वया कामनया नया नयाः ॥ ८ ॥ श्रीराज सागर मनीषिभुजिष्यशिष्यः
२०६
श्रीमत्सुधी सहजसागरसुप्रभावात् । भक्ताशयः शिवमुदे रवि सागराह
स्तुष्टाव पार्श्वमधिपं यमकाष्टकेण ॥ ९ ॥
[ ५९ ] श्रीविद्याविमल शिष्याणुप्रणीतं श्रीपार्श्वजिनस्तवनम् ।
पण्डितोत्तम पं. श्री ६ वानरगणिगुरुभ्यो नमः । निजगुरोरभिनम्य पदाम्बुजं स्तुतिपथं जिनपार्श्वमहं नये | भविकलोक चकोरनिशाकरं भजत पार्श्वजिनं जनशङ्करम् ॥ १ ॥ विततसाधुगुणास्पदसातदं सुकृतकाननपद्मवनाम्बुदम् । निजगभीरगुणैर्जितसागरं भजत पार्श्वजिनं जनशङ्करम् ॥ २ ॥