________________
२०२
श्रीजैनस्तोत्रसन्दोहे [ श्रीशिवसुन्दर
प्रपश्चितामप्यतिभीतिभौतिभी रुणद्धि भक्त्योल्लसतां सतां सताम् । वन्मूतिरतिः सकला कला कलावपीश ! क्लप्तव्यसनासना सना ॥७॥ त्वयि प्रसन्ने प्रगुणा गुणागुणा द्विषोऽपि च प्राज्यमहा महामहा । भवेत् सदोदित्वरधीरधीरधीशता च जन्तुष्वतिभूतिभूतिभूः ॥८॥
अवचूरिः । रवः-शम्भुः तेन शिरसा धारिणा उह:-महान् , सर्वे हि बहुमानदार्थ केन महान् स्यात् इत्यव्ययमप्युक्तिलेशो ज्ञेयः । भवत्ती• एव घनाघना-मेघाः घनाःसान्द्रा वा दृढा वा न उद्यन्ति, न उद्भवन्ति, तेषां पादोन्दूनां विप्लवं ददतीति तद्विप्लवदाः वदावदा-युक्तिभिर्गर्जिताश्च ॥६॥ . अतिभी:-वज्रज्वाला ईतयः सप्त अतिवृष्टयनावृष्टयादयः, भीतयोऽपि इहलोकभवाद्याः सप्त, ताभिः प्रपञ्चितामपि अति त्वन्मूर्तिः-तव प्रतिमा कलावपि हे ईश ! भक्त्योल्लसतां सतां वर्तमानानां सतां-उत्तमानां रुणद्विइस्तीत्यर्थः अपिशब्दाद व्यालादीनां । कीदृशी ? सकला-कलया-शल्येन प्रस्तावात् सूत्रधारसत्केन वर्तते या सा । तथा कला मनोहरा । फलशब्दः सामान्येनापि मनोहरार्थे दृश्यते । यथा माघे 'मुदरमान्तकलभावि कलस्वरैः'
) इत्यादौ । तथा क्लप्तव्यसनाना दुःखानां द्यूतादीनां वा असनं-विध्वंसो यया । सना-सदा ॥
गुणाः ज्ञानादयः प्रगुणाः-सज्जीभवन्ति इत्यध्याहार्यम् । द्विषः-वैरिणः गुणाः-गौणाः स्युः ‘गुणो ज्या सूत्रतन्तुषु । रज्जो सत्वादी सन्ध्यायां शौर्यादौ भीम इन्द्रिये । रूपादावभिप्रधाने च दोषान्यस्मिन् विशेषणे ॥' (हेम्यने० श्लो० २११३७॥ इत्यनेकार्थवचनात् गुणाः गौणाः स्युः ।