________________
सूरिप्रणीतम् ]
श्रीपार्वजिनलघुस्तवनम् । २०३
इत्थं स्तोत्रपथं कथञ्चन घनश्यामाङ्ग | वामाङ्गज ! त्वां नीत्वा तनुधीरपि त्रिभुवनत्राणैकदीक्षागुरो | | नेन्द्रत्वादिवरं जिनेश ! न वरं नाथामि नाथामिता - नन्दश्रीगुरु सोमसुन्दरपरब्रह्म प्रकाशोदयम् ॥९॥
तथा त्वयि प्रसन्ने जन्तुषु अधीशता - प्रभुता भवेत् । कीदृशी ? प्राज्यं -महःतेजो यस्याः सा । तथा महान्तो महा उत्सवा यस्यां सा । तथा उदित्वरा धीरा बाह्यान्त र वैरिभिरक्षोभ्या धीर्यस्याः सा । तथा अतिशयेन भूते:-लक्ष्म्या भूतिः - उत्पत्तिः तस्या भूः - भूमिः स्थानमित्यर्थः । इत्थं स्पष्टम् ॥