________________
श्रीजैनस्तोत्रसन्दोहे [श्रीबिल्हणआल्हादमन्त्री परमप्रमोदक्रमोदयद्भक्तिभृतान्तरङ्गः ॥१०॥
[५३] श्रीविल्हणकविकृतं श्रीपार्श्वनाथस्तोत्रम् ।
जयति भुजगराजप्राज्यफुल्लत्फणाली
मणिकिरणकदम्बाडम्बरी पार्श्वनाथः । भुवनभवनगभदिभ्रमोहान्धकार
च्छिदुरतरुणदीपोद्दीपने कौतुकीव ॥ १ ॥ दिशतु सुकृतिलोकप्रस्तुतश्लाध्यपूजा
विलसदगुरुधूमस्तोमसङ्गादिवाङ्गम् । दधदभिनवमेघश्यामलं मङ्गलं व
खिजगदभयदीक्षादीक्षितः पार्श्वनाथः ॥ २॥ कमपि कमठदैत्याकालकालाम्बुवाह
व्यतिकरविधुरेऽपि श्रीविशेषं दधानः । मदनमदविकाराम्भोरुहम्लानिहेतु
जनयति स जिनेन्दुर्युष्मदाशाः प्रकाशाः ॥ ३ ॥ जयति भवदवाग्निव्याप्तिनिर्दह्यमान
स्त्रिभुवनजनरक्षादेशकः पार्श्वनाथः । घनमयमिव देहं पन्नगस्वामिचूडा
मणिविरचितचञ्चन्नाकिचापं दधानः ॥ ४ ॥ १ देशितः । २ दीक्षितः ।