________________
कविकृतम् ] . श्रीपार्श्वनाथस्तोत्रम् ।
कलितगरलशोभाभोगिभर्तुः शरीरे । निजकरकमला भृङ्गिमालायमानाः । दिशि दिशि मृगनाभीपत्रभङ्गाभिरामा
. ददतु शुभगति वः पार्श्वनाथस्य भासः ॥ ५ ॥ तरलतरललामानङ्गहाराङ्गहारा
मरसमरसरामारङ्गसारङ्गसारम् । नवननवनवोक्ति (1) दीप्रसिद्धं प्रसिद्ध
नमति नमति मांस्त्वां कोऽञ्जनाभं चनाभम् ॥६॥ कुवलयवननीलश्चारु बिभ्रत् स्वभावं
नवनयघनशैलः पौरुषाद् भ्रष्टभावम् । वितरतु मम तानि श्रीजिनेन्दुः सुखानि
श्रितचतुरमितानि श्रीजिनेन्दुः मुखानि ॥ ७॥ फणिपतिफणरत्नोद्योतविद्योदितश्री
दिशतु शिवगतिं वः पार्श्वनाथस्य मूर्तिः । रणरणकविशेषक्षोभवन्मोक्षलक्ष्मी
सरभसपैरिरम्भात् कुङ्कुमेनारुणेव ॥ ८॥ इति जिनपतेः स्तोत्रं चित्रं महाकविविल्हण__ प्रथितमखिलत्रैलोक्यैकप्रकाशनभास्वतः । पठति सततं यः श्रद्धावान मज्जति सज्जनो
भवजलनिधौ सप्रद्युम्नस्थिति चिरयाश्रितः ॥ ९ ॥
सरमसगतिरम्भात् । २ भास्वरः ।