________________
मन्त्रिप्रणीतम् ]
श्रीपार्श्वजिनस्तवनाम् ।
सङ्कोचमश्चति न चन्द्ररुचा न पङ्क
पृक्कं न कण्टकचितं च परागराजि । दत्ते पदाम्बुजयुतं तव पार्थनाथ!
ध्यानकतानमनसा घनसान्द्रमोदम् ॥ ५॥ भूपा बभूवुरवनौ शतशः सुरूपा
__ दधेऽपि यैर्भुजगतो जगतोऽपि भारः । पापापगापतितले पतयालु विश्व
विश्वम्भरावलयभूषण ! रक्षसि त्वम् ॥ ६ ॥ ये जन्तवः स्तवपरास्तव विश्वनाथ !
शङ्केश्वरे सुखमयं समयं नबन्ति । ते मातुरातुररवं नहि गर्भवास
__ क्लेशं दिशन्ति मनुजा ननु जातमोक्षाः ॥ ७ ॥ पापैबलेन तिलतन्दुलितेऽत्र विश्वे ....विश्वेश ! केशवशिवादिषु दूषितेषु । अद्यापि ते कलियुगेऽप्यनुभाव भेरी
सेरीसके सुकृतिनां श्रुतिमूलमेति ॥ ८ ॥ अम्भोदरूपिणि रुषा कर्मठे हठेन
. वृष्टया विकुर्वति भवन्तमवन्तमूर्वीम् ।। लीलातपत्रधरणे धरणेन्द्रनाग। स्त्वत्पर्युपासिषु विभो ! परमार्गमाप ॥ ९॥ श्रीपार्श्वनाथस्य नवस्तवाची ( नवां तथा! !)
. चकार कारुण्यनिधेर्जिनस्य ।