________________
विरचितम् ] श्रीनवपल्लवपार्श्वस्तवनम् । १८७ कन्दर्पराजघनमानतमोवितानं प्रद्योतनामलकलानिलयाब्जनेत्र !। शुद्धेन्द्रनीलमणिनीलतमालनील ! मां पाहि पाहि नवपल्लवपार्श्वनाथ !२ काश्मीरसम्मिलितचन्दनचर्चिताङ्ग ! सद्गागवारिभृतकुम्भकृताभिषेक। श्रीमालतीब कुलचम्पकपुष्पपूज्य ! मां पाहि पाहि नवपल्लवपाश्र्वनाथ!॥३॥ कादम्बिनीपतिहठदुमसत्कुठार ! नीहारगौरजिनशासनपद्मभानो ! । काकोदरेन्द्रवरिवस्थितपादयुग्म ! मां पाहि पाहि नवपल्लवपार्श्वनाथ ॥४ होकारसारविहिताश्रयसिद्धिलक्ष्मीलाभेन कोमलगिरः स्तवनीयमूर्ते ! । वामेय! गेय ! सुरकिनरकामिनीभिः मां पाहि पाहि नवपल्लवपार्श्वनाथ॥५.
[५० ] अन्तरीक्षपार्श्वनाथस्तवनम् ।
श्रीश्रीपुराभिधपुरप्रथितावतारं प्रोल्लासिमुक्तिकमलाहृदि तारहारम् । श्रीपार्श्वनाथ ! जिनराज! मुदा भवन्तं स्तोष्ये प्रभावभवनं जगतीमवन्तम् ॥ स्वामिन् ! निर्मलवालुकाकणगणैर्निर्माप्य सम्पूजिता ___ राज्ञा श्रीखरदूषणेन भवतः श्रीपार्श्व ! मूर्तिः पुरा । श्रीपुजेन नराधिपेन तदनु श्रीश्रीपुरेऽस्थापि या
सा देव ! प्रतिमा तवेयमनघा दिष्टयाऽद्य दृष्टा मया ॥२॥ स्वामिन् ! नम्रामरनरपते ! स्नात्रमात्राम्भसा ते
ऽद्यापि प्रोच्चैः पुर इह दृशो दीप्यते दीप्रदीपः । तस्य स्पर्शादपि च सकलेप्राणभाजां समग्रा
रोगा यान्ति क्षतिमथ भवेद् भाग्यसौभाग्यलक्ष्मीः ॥३॥