________________
श्रीजैनस्तोत्रसन्दोहे. [ श्रीजिनपतिनश्यत्सर्वातिशयविभवे म्लेच्छमालावकीर्णे . पूणे पापैः प्रवहति कलावत्र काले कराले । आकाशस्थां तव जिनपते ! मूर्तिमालोक्य के के
नोचैर्भूयुर्भविकनिकरा विस्मयस्मेरनेत्राः ॥ ४ ॥ श्रीमद्वामेय ! देव ! त्रिभुवनजनताचिन्तितार्थप्रदाने
चिन्तारत्नोपमान ! प्रविलसदमलज्ञानसम्पन्निधान !। रागाद्यान् वैरिवर्गान् हृदि कृतवसतीन् दुःखदौर्गत्यदातृन् . स्वामिन्नन्तं नय त्वं मम चरणधनं लुम्पमानानमानम् ॥५॥ आधिव्याधिज्वरभरमहादुष्ट°ष्टप्रमुख्यान्
रागान् बाह्यानरतिमदनाज्ञानमिथ्यात्वमोहान् । अन्तःशत्रूनपि च निखिलांस्त्वां हरन्तं हि दृष्टा
मन्ये धन्वन्तरिरयमगात् कापि लज्जां दधानः ॥६॥ भ्रामं भ्राम समयममितं पूर्वदुष्कर्मयोगा
ल्लाभं लाभं कुमतिवशतो दुःखलक्षाणि साक्षात् । आप्तः प्राप्तस्त्वमिह मयकाऽचिन्तितार्थप्रदाता
शश्वद्विश्वत्रितयजनतावाणकर्तर्जिनेन्द्र ! ॥ ७ ॥ रागद्वेषकषायभीषणमहानक्रौघचक्रग्रह
ग्राहग्रस्तसमग्रविग्रहभृतां दीनारवैर्व्याकुलं । संसाराम्बुनिधौ पतन्तमतुलैर्दुष्कर्मभिर्माऽधुना रक्ष त्वं जगतीजनवजपरित्राणप्रभूष्णुः प्रभो ! ॥ ८ ॥
१ निखिलप्राणभाजां समप्रो, रोगबातो विलयमयते राजयक्ष्माख्यमुख्यः ॥ क। २ राजयक्ष्म० क ।
-
-