________________
. श्रीजनस्तोत्रसन्दोहे [श्रीलक्ष्मीलाभनीरागोऽपि गतस्पहऽपि विगतद्वेषऽपि सङ्गोयसे
विज्ञैश्चित्रमदोऽथवा हि महतां महात्म्यमीदग्विधम् ॥२१॥ त्रिपदी
श्रङ्गारसकला नारी सौभाग्यसुन्दरी रे जाने वरसुरी रे अभिनवयोवन हरिहरी रे ॥ २२ ॥ कुचभरनमदगी सुरङ्गनिरङ्गी रे।। प्रेमपुष्पभृङ्गी रे विरचितमृगमदभङ्गी रे ॥ २३ ॥ शीलशालि सदाचारा सततमुदारा रे। सुधर्मविचारा रे जिनगुणगानसुतारा रे ॥ २४ ॥ आनन्दपूरितबाला तव सुममालाभिः । विविधविशालाभी रचयतिपूजां वरकला रे ॥ २५ ॥ एवं संस्तुतिगोचरं जिनवरं नीत्वा गुणैर्भासुरं। त्वां श्रीमन्नवखण्डपार्श्व ! सुतरामेकं तु याचे वरम् । देया मे गुरुराजहेमविमलं त्वं सर्वसौख्यास्पद ज्ञानं मान्यतमं महोदयमना आनन्दमाणिक्यदम् ॥२६॥
[४९]
श्रीलक्ष्मीलाभप्रणीत श्रीनवपल्लवपार्श्वनाथस्तोत्रम् ।
उद्यत्फणामुकुटभूषितमस्तकान्त ! त्रैलोक्यलोकनयनामृतपूर्णचन्द्र ! । विख्यातमङ्गलपुरस्थित ! वीतराग! मां पाहि पाहि नवपल्लवपार्श्वनाथ॥१