SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीनवखण्डपार्श्वजिनस्तवनम् । ૩૮૯ वामादेवी जननीजात ! प्रभावतीवर ! गतितात ! | सुखकर ! विनतजने चरणपवित्र ! मुने ! जिन ! जिन ॥॥१३॥ मोहनवल्लीकन्द | निर्मितनयनानन्द ! | सुन्दरसदयमते ! त्वयि मनो मे रमते जिन ! जिन ! ॥ १४ ॥ उपशमरसभृङ्गार ! जगतीयुवतिशृङ्गार ! । शं कुरु मे भजते भवसागरविरते ॥ १५ ॥ काव्यम् - वाणी सैव मनोहरा ननु यया त्वं गीयसे नित्यशः *लाध्या दृष्टिरियं यया च नितरां त्वं दृश्यसेऽहर्निशम् । हस्तः शस्ततरः स एव फलदा यः पूजयेत् त्वां जिनं ध्यानं धन्यतमं तदेव सुखदं यस्मिन् प्रभो ! त्वं भवेः ॥ १६ ॥ फाग -- विषयमहारसपूरितदूरितधर्ममतिम् । शरणागतमथ मां जिन ! अवृजिनं कुरु सुमतिम् ॥ १७॥ मदनमहोरगसुविषमविषमलभरितहृदम् । त्वं जिननायक ! मां प्रति सम्प्रति दिश सुपदम् ॥१८॥ क्रोधदवानलको लितमीलितनयनयुगम् । कुरु वचनामृत पोषणतोषणतः सुभगम् ॥ १९ ॥ लोभप्रलोभकवञ्चितलुञ्चितधर्मधनम् ॥ मामथ जिनवर ! पालय लालय सर्वदिनम् ॥२०॥ काव्यम् त्वां ये नाथ ! नुवन्ति सादरतया निन्दन्ति ये पापिनस्तेषां वाञ्छितसम्पदं च विषदं धोरां ददासि स्फुटम् ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy