________________
श्रीजैनस्तोत्रसन्दोहे [श्रीआनन्दमाणिक्य
काव्यम्
पातालधिपशेषनागवदलं जिह्वासहस्रद्वयं वक्त्रे स्यादपि यस्य बुद्धिरतुला जीवस्य तुल्या तथा । सोऽपि श्रीजिनपार्श्वराज ! तव यान् स्तोतुं भवेन्नो क्षमः
सङ्ख्यातीतगुणानहो जडमतिः स्तोष्ये कथं तान् प्रभो!।॥६॥ रासालुद्धउ--
रसनाविंशतिशतं यदि वदने वदने वचनविलासे । नागाधिप इव भवति निकामं कामं करसोल्लासे रे ॥ ७ ॥ देवसूरीश्वर इव यदि हृदये हृदयेश्वरसुविकाशे रे। विलसति विमलमतिर्जनजीवन ! पीवन तव गुणदासे रे ॥८॥ यदि बहुसागरजीवितमानं मानद ! भवति संसारे रे । अमरनायक इव घनधनसहितं हितकर ! भव दववारे रे ॥९॥ तदपि तवामलगुणगणराशि वासितभुवनविचालं रे ।
नोतुमलं न भवामि हि जिनवर ! नवरससरसविशालं रे॥१०॥ काव्यम्
श्रीसर्वज्ञ ! जिनेश ! तावकलसत्पादारविन्दद्वयं प्रातर्यो नमति प्रभो ! प्रमदतो लक्ष्मीविलासालयम् । प्रीतिप्रेमवशादवश्यमवशा सेवेत सेवापरा
पद्मा पुण्यपरंपरा परनरं तं सर्वकालं कलम् ॥ ११ ॥ आढेआ
कमलाकेलिनिवास ! शमरसविहितोल्लास ! वासवनिकरपते.! जय जय विमलमते ! रे जिन ! जिन ! ॥१२॥