________________
नवखण्डपा'र्वजिनस्तवनम् ।
[ ४७ ] समस्यामयं श्रीनवखण्डपार्श्वजिनस्तवनम् ।
विरहितम् ]
श्रीपार्श्व नवखण्डाख्यं तं स्तुवे हर्षसंयुतः ।
दीपश्रेणीते यस्य " गेहे दीपालिका दिवा ' ॥ १ ॥ यस्या दिव्यनारीणां नृत्ते वृत्ते मनोहरे ।
K
विरराज ' दिनारम्भे शतचन्द्रं महोलम् ' ॥ २ ॥ जन्माभिषेके सुरशैलमौलौ देवेन्द्रक्लृप्ताद् भुतगोविषाणैः । सत्यापितं क्षीरजलं क्षरद्भिर्गोशृङ्गतः क्षीरसमुद्भवो यत् ' ॥ ३ ॥ चित्तान्तरस्थे त्वयि देवदेव ! दुःखं कथं नो भजते विरामम् । रात्रौ दिवा यः सततं विरोधो 'दीपे करस्थे तिमिरेण बाधा' ॥ ४ ॥ भवे दौःस्थ्यदारिद्रयदुष्कर्मभीमे कलौ भ्राम्यता भूमिमध्ये भ्रमेण । पदाब्जं त्वदीयं विभो ! यन्मयाप्तं 'प्रफुल्ले करीरे सरोजं हि दृष्टम् ' ॥ त्ययि प्रभो ! दृष्टिपथं समागते मनो यदीयं भजते महाऽरतिम् । तस्यैव जन्तोर्बहुपापयोगतः 'समुद्रमध्ये किल धूलिसम्भवः ' ॥६॥ त्वदर्शनं नाथ ! मयेदमाप्तं दुःप्रापमन्तर्भवसन्तनीह | सद्भाग्ययोगाज्जगदीश ! तस्मात् 'पङ्गः प्रयातो गिरिमेरुशृङ्गम् ' ॥७॥ भवाब्धिमध्ये भ्रमतां स्वकर्मतो जिनेन्द्र ! राज्यादिसुखं न दुष्करम् । सुदुर्लभं दर्शनमत्र ते यथा 'पलाशवृक्षे सहकारमञ्जरी ' ॥ ८ ॥ त्वयि विभो ! समदः कमठो घनं सजलभारभृतं विपुलं यदा । रचितवान जगत् किल लक्ष्यते 'न रजनी न दिवा न दिवाकरः ॥ ९ ॥