________________
१८०
श्रीजैनस्तोत्रसन्दोहे
[ ४६]
श्रीकुङ्कुमरोलापार्श्वजिनस्तवनम् ।
कुङ्कुमरोलमिधं पार्श्व जालोरपुरसंस्थितम् । श्रेयः श्रेणिलतामेवं संस्तुवेऽहं जिनेश्वरम् ॥ १ ॥
[ कर्तृनाम
ही श्री अर्ह संयुक्त ! श्रीपार्श्व ! जगदीश्वर ! | त्वन्नामस्मरणाद् भक्तलोकानां स्युर्महर्द्धयः ॥ २ ॥
सुरासुरेन्द्रसन्दोहसंसेव्यपदपङ्कज ! | जगध्येय ! गुणामेय ! जय त्वं करुणानिधे ! ॥ ३ ॥
पीनोऽहं पापपङ्केन हीनोऽहं गुणसम्पदा । दीनोऽहं तावकीनोऽहं मीनोऽहं त्वद्गुणाम्बुधौ ॥ ४ ॥
दासः प्रेष्यः प्रसादार्थी सेवा वाकि सेवकः । किङ्करस्तावकीनोऽस्मि तत्प्रसीद मयि प्रभो ! ॥ ५ ॥
अश्वसेनमहीपालकुलपाथोजभास्करः । वामाकुक्षिसरोहंसः पार्श्वोऽसौ भवतान्मुदे || ६ ||
इत्थं पार्श्वजिनेन्द्रः कुङ्कुमरोलाभिधानविख्यातः । स्वर्णगिरिशिखरमण्डनमानन्दं वः सदा देयात् ॥ ७ ॥