________________
श्रीजैनस्तोत्र सन्दोहे [श्रीआनन्दमाणिक्यघोराट्टहासकलिताः प्रचुराः पिशाचा ___व्यालास्तथा प्रबलभूतगणाः सुरेन्द्राः । दैत्याधिपेन विकृता भयहेतवे यत्
'स्वर्णादिराप व्यजनानिलतः प्रकम्पम् ॥१०॥ त्वच्छासनं दुरितभारहरं वरेण्यं
मूढा नराः परमतत्त्वविचारशून्याः । ये शासनान्तरेण सदृशं गणयन्ति तेऽत्र
'मुक्ताफलानि बदरैः परिवर्तयन्ति॥ ११॥ . देवेशमज्जनले सरसे सुरम्यं
कर्पूरसुन्दरतरे गुरुकेशराढये । बिम्ब निरीक्ष्य किल मत्तदशाः सुरङ्गा
'श्चन्द्रं महीतलगतं मधुपाः पिबन्ति' ॥ १२ ॥ स्वामिन् ! प्रसीदादिश किङ्करे मयि सौम्यां दृशं देहि कृपां विधेहि च। गावी कदा मे तव सङ्गमो यथा 'क्षाराकरे वा घनसारदर्शनम्' ॥१३॥
मोहान्धा ये मदनजडिमाक्रान्तचित्ता अभव्याः ___ काले चास्मिन्निखिलतिमिरर्मुक्तमास्यं त्वदीयम् । पादाब्जं वा भवति सुलभं पार्श्वमायुः किमेषां ___ 'बन्ध्याजोऽन्धः कुहुनिशि रविं पश्यति व्योमपद्मम् ॥१॥ यः पावित्र्यभरं तनोति सुमहान् यो दानशृङ्गारयुक्
यश्चान्तं न लभेत मुक्तिदयितो मालिन्यवान् यश्च न । .... १ अत्र च्छन्दोभङ्गः ।