SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तवनम् । ~ [४५] श्रीजिनसमुद्रसूरिसन्दृब्धम् जेसलमेरुमण्डनश्रीपार्श्वजिनस्तवनम् । आनन्दभन्दवनपल्लवने वसन्तं चित्ते सतां शिवपदे च सदा वसन्तम् । विश्वोपकारिवरवैभवलाभवन्तं श्रीपार्श्वदेव ! विनुवामि मुदा भवन्तम् ॥ संसारसागरतरण्ड ! करण्ड ! सम्यग् ज्ञानादिरत्ननिचयस्य जगद्वयस्य। वामेय ! विश्वजनगेय ! गुणैरमेय ! त्वं गी:पतेरपि गिरां न हि गोचरोऽसि ॥२॥ त्वया यदर्धज्वलितस्य तस्य कृतः पुरा कोऽपि महोपकारः । अपि द्विजिह्वो द्विसहस्रजिहो बभूव संस्तोतुमिवेनमेव ॥ ३ ।। यत्ते व्यधायि कमठेन कठोरघोरधाराकरालजलवृष्टिरिहोपरिष्टात् । तेनैष केवलमवीवृधदात्मनो वै दुःकर्मवल्लिवनमेव चिरप्ररूढम् ॥४॥ स्फूर्जत्फणामणिधरं धरणं भजन्तं यच्चापि पातकमळं कमठं द्विषन्तम् । त्वं मन्यसे सदृशमीदृशमीश ! लोके नीरागताविलसितं लसितं तवैव ॥ दोषावसानोदितकेवलश्रीकलाकलापाप्रतिपातिरूपः । नीरूप्यसे कश्चन देव ! धन्यर्दिनोदयेऽपि त्वमपूर्वचन्द्रः ॥ ६ ॥ त्वन्नाम वामाङ्गज ! ये जपन्ति नश्यन्ति दूरं दुरितानि तेभ्यः । कुर्वन्ति ये गारुडमन्त्रजापं बाध्यन्त एवाहिविषैः कथं ते ॥७॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy