SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ मुनिश्रीचतुरविजयसुवि स्तुतो येन भवानिन्दावरदलासितः। स्वकीर्तिपूरस्तेनेन्दुनिन्दी वरद ! लासितः ॥६॥ अपि व्यामोहिताशेषसुरदानवमानवाः । न त्वामचुक्षुमन्नारी सुरदा नवभा नवा ॥ ७ ॥ फुल्लत्फणिफणारत्नरुचिराजितविग्रहे । त्वयि प्रीतिः स्फुरतु मे रुचिरा जितविग्रहे ॥ ८ ॥ धुपतिमुकुटप्रोघृष्टांहिं जगत्कमलाकर द्यपतिमनघं स्तुत्वेति त्वां कृताञ्जलिरर्थये । प्रशमबलधे ! मह्यं सद्य प्रसघ वितायतां प्रशमनविधौ भावारीणां जिन ! प्रभविष्णुता ॥९॥ [४४ ] मुनिरत्नश्रीचतुरविजयविरचितं श्रीपाश्वेनाथस्तोत्रम् । मिनराज ! सदा तव मे शरणं शरणागतवत्सल ! पार्श्वविभो !। गुणिनां विदधासि शिवं सुभगं सुभगेत्यवगत्य ततस्तरसा ॥१॥ अहमागत आप्त ! भवच्चरणं चरणे मम देहि मतिं विमलाम् । विमलं मम मानसमीश ! कुरु यदि चेत् तव दानगुणोऽवितथः ॥ गुणिनां भविनां विभवं कुरुषे किमु चित्रमिदं तदहो मुनिप ! । मुनिपापमिमं यदि तारयसि भवतीश! तदा तव तारकता ॥३॥ मदमानयुतं व्यसनैर्व्यथितं मथितारिंगणेश ! विधाय कृपाम् ॥ समये भणिताच रणाद् विमुखं जिन ! तारय मां गुणहीनमिमम् ।। चरितं मम तीर्थपते ! गहनं भणतीति नियोज्य करौ चतुरः। भवसागरपर्यटनं परमं परमेश्वर ! वारय वारय मे ॥ ५ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy