SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्री पार्श्वजिनस्तवनम् । निःशेषमन्त्राक्षरचारुमन्त्रं श्रीपार्श्वतीर्थेश्वरनामधेयम् । सदा स्मरामः प्रमुदा महामः प्रीत्या नमामः कुशलं लभामः ॥ ५ ॥ [ ४३ ] श्रीजिनप्रभसूरिविरचितं यमकमयं श्रीपार्श्वजिनस्तवनम् । श्रीपार्श्व भावतः स्तौमि महोदधिमगर्हितम् । उद्धरन्तं जगद् दुःखमहोदधिगर्हितम् ॥ १ ॥ दृग्गोचरं भवान् येषां प्रियङ्गुरुचिरायते । प्राप्नुवन्ति सुखं नाथ ! प्रियं गुरु चिराय ते ॥ २ ॥ त्वां चतुःषष्टिरिन्द्राणां तुष्टावामेयवैभवम् । समूलका कषितुं तुष्टा वामेय ! वै भवम् ॥ ३ ॥ पवनीभवितुं कर्मवनदक्षेपेणा यते । को ना हि कमले नम्रावनदक्षे पणाय ते ॥ ४ ॥ वन्द्यस्त्वं - गर्मुक्त ! वैनतामरसासनः । स्वप्नेऽपि स्वदते तेन विनतामरसाननः ॥ ५ ॥ १ वनदक्षपणायते । क । २ विनितामरसाननः । क । १७५
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy