SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ १७४ श्रीजैनस्तोत्रसन्दोहे [श्रीजिनप्रभनिजगिराऽमृतयूषमुधाकरं गुणविनिर्जितपूर्णसुधाकरम् । जिनमजातरसं महिलासु तं प्रणिदधे प्रयतस्त्रिशलासुतम् ॥ २४ ॥ भुवनमुन्दरमरिवरस्तुताः सकलकेवलिनो बलिनो गुणैः । भुधि भवन्तु विभास्वरसम्पदे स्फुटमहोदयिनो दयिनो मुदे ॥२५॥ इति विविधयमकमयचतुर्विंशतिजिनस्तवनम् । श्रीभुवनसुन्दरसूरिपादैः कृतम् ।। [ ४२ मन्त्राक्षरगर्भित श्रीपार्श्वजिनस्तोत्रम् । ॐ ह्री श्री [ अर्ह ] धरणारगेन्द्रमहितः श्रीसप्तभोगोल्लस न्माणिक्मावलिकान्तिसञ्चयदिनध्वान्तप्रपञ्चप्रभुः । श्रीवामोदरचारुपङ्कजवनीमार्तण्डबिम्बायते विघ्नश्रेणिविमन्थनो विजयते श्रीपार्श्वनाथो जिनः ॥१॥ ॐ कारैः होकारैः श्रीकारैर्वर्णमन्त्रसङ्घातैः । हृत्पुण्डरीकपीठे स्मरत श्रीपार्श्वतीर्थकरम् ॥ २ ॥ ध्यायन्तिस्फटिकश्वेतमभिप्रेतं परं पदम् । होकारश्रीवशीकारचतुरं पाश्वतीर्थपम् ॥ ३॥ लभते सकलामृद्धिं बुद्धिं सिद्धिं सपुत्रताम् । प्राज्यं राज्यं कलत्रं च सम्यक् तत्वं सुनिश्चलम् ॥ ४ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy