________________
सूरिसन्दृब्धम् ] श्रीचतुर्विंशतिजिनस्तवनम् ।
विमल ! ते मलतेऽमलतेजसः शिवरसं वरसंवरसङ्गतम् । सुचरणं चरणं च रणं च यः स्थिरतमारतमार तमाप चित् ॥ १३ ॥ जिनमनन्तमनन्तचितं भजेत् सुखमपारमपारमितं च यः । शिवरमा वरमाश्रयमाश्रयेत् तमुदितं मुदितं स्थिरसम्पदा || १४ || अवनतामर ! तामरसाननं प्रवरमङ्गलमङ्गलता नृणाम् । जनमता नमतादिह सुत्रतासुतमसौ तमसौहृद भेदिनम् ।। १५ ।। नमत शान्तिजिनं पदयोर्लुठत्सुरवरं वरञ्जितसज्जनम् । स्फुरति यस्य सुधर्मकथावनी सुखचिता खचिता मणिमौक्तिकः ॥ १६ ॥ सुरपतिस्तव कुन्धुविभो । गुणान् सुरपतित्वमनारतमेव यत् । सवितरस्यघतामसखण्डने स वितरस्यतुलं च सुखं नृणाम् ॥१७॥ मदनदत्यविनाशसुदर्शनं प्रमदनिर्भरतात सुदर्शनम् ।
॥१९॥
अरजिनं सुखकारणदर्शनं सुजन ! हे भज पङ्कजदर्शनम् ॥ १८ ॥ जिनपर्ति बहुलक्षमया चितं प्रददतं वसुलक्षमयाचितम् । तृपति कुम्मभवं तिमिराजितं प्रणमताङ्घ्रिलुउत्सुरराजितम् भुवनतारक ! तारकलाः श्रयन् वरसभासित ! भासितभूतल ।। प्रशमनाशय ! नाशय दुष्कृतं जिन ! सुमित्रज ! मित्रजनावलेः ॥२०॥ अघनि (वि) शासनशासन | हर्षदः प्रबलदर्पकदर्पकलाजितः । त्वमसमान समान सतोषकृद्विजयनन्दन ! नन्द नयाश्रित ! ॥२१॥ घृतरसास्तरसा दधतो मुदां वरचयं रचयन्ति जनेर्महम् । सुरजना रजनावपि यस्य तं स्तुत तमांततमाश्चितनेमिनम् ॥ २२ ॥ स्मरहृतौ प्रभवन्तमनारतं जिनपपार्श्वभवन्तमनारतम् । गुणजितेन्दुभवं तप आश्रयं गतभवं तमहं विभुमाश्रयम् ॥ २३ ॥
१७३