________________
१७२ श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरविपुलमङ्गललस्मिनिकेतनं स्तुतिपरामरचारणकेतनम् । अजिततीर्थपते ! पदयामलं तव भजे स्थिरसौख्यमयाऽमलम् ॥२॥ मदनमर्दन ! सम्भव ! ते श्रियेऽमदनरेन्द्रनताघ्रियुगं मुदा। प्रमदनिर्भरदेवगणस्तुताऽप्रमदयोपशमादिगुणालय ! ॥ ३ ॥ शिववधूवरहारविनायकप्रभ ! भवन्तमघाहिविनायक ।। भजति तुर्यजिनं भुवि ना यकः स भवतीहितवस्तुविनायकः ॥४॥ विजयते सुमते ! जनताऽऽरकं तव मतं विदधद् भुवि तारकम् । निजयशस्ततिनिर्जिततारकं महिमधाम विभो ! निहतारकम् ॥५॥ कमलमीप्सुरहं निहताखिलाकमल ! ते चरणं शरणं श्रितः । कमलया कलया कलितानिशं कमललाञ्छन ! देव ! धरात्मज ! ॥६॥ जिन ! सुपार्थ! सुपर्वसभाजन ! प्रबलहर्षविकाशिसभाजन !। प्रशमनाममहारसभाजन ! त्वमसि शस्यगुणो न सभाजन ! ॥७॥ जिनपते ! क्षणदेश्वरलाञ्छनाऽखिलविचक्षणदेशनरस्तुत ।। कृतशिवेक्षण ! देव ! सुखावलीः कुरु सदा क्षणदेश! दयानिधे ! ॥८॥ विहरति त्वयि भूमितले विभाविह रतिः समभूत् सुविधे ! सताम् । विहरति प्रथितां भवभीमतां विहर तिग्मकरादिसुरस्तुतः ।।९।। गुरुरुचे रुरुचे तव यो मते जिन ! भवे दभवेदशिवो ह्यसौ । विनयिने नयिने प्रणतोऽस्मि तत् शुभवते भवते भव शोतल ! ॥१०॥ सुनयनं नयनन्दिसरोरुहोद्भवरविर्वरविष्णुसुतं जिनम् । मुविभवं विभवं जनता श्रिता सुविशदेऽविशदेव पदे ध्रुवम् ॥११॥ अकमनमनन्तमितं सदाप्यनवमं नवमं समाश्रितम् । जितमदं तमदम्भगिरं जिनं सजयया जयया जनितं स्तुवे ॥१२॥