SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सूरिसन्दृब्धम् ] श्रीचतुविशतिजिनस्तवनम् । १७१ रम्योऽशोकतरुः स्फुरत्परिमलाकृष्टालिमालाकुला वृष्टिः सौमनसी सुरेविरचिता दिव्यो ध्वनिर्वन्धुरः । चश्चच्चामरमण्डलं स्फुरदुरुश्वेतातपत्रत्रयी भास्वद्रत्नगणाऽनणुद्यतिभरैराभासि सिंहासनम् ॥१९॥ व्योमन्यब्द इवातिमन्द्रमधुरध्वानो नदन दुन्दुभि मार्तण्डद्युतिमण्डलाभममलं भामण्डलं चाद्भुतम् । इत्येतां भुवनेषु विस्मयकरौं त्वत्प्रातिहार्यश्रियं दृष्टा कस्य जगन्नमस्य ! न भवेत् प्रौढप्रमोदोदयः ॥२०॥युग्मम्।। श्रीमन्नाभेयदेव ! प्रथमजिन ! जगन्मानसाम्भोजहंस ! प्रौढश्रीपुण्डरीकाचलविमलतरोत्तङ्गशृङ्गावतंस ! । एतां यस्तावकीनस्तुतिकुसुमस्र स्थापयेत् कण्ठपीठे सोत्कण्ठाः सम्पदस्तं त्रिजगदधिपते ! वृण्वते विश्वशस्याः ॥२१॥ इति श्रीशत्रुञ्जयस्तवनं श्रीभुवनसुन्दरमरिकृतम् । [४२ ] श्रीभुवनसुन्दरमुरिसन्दृब्धं विविधयमकमयं श्रीचतुर्विंशतिजिनस्तवनम्। विजयते वृषभः स शमास्पदं जिनपतेरिह यस्य शुभं पदम् । प्रणमतां विपदोऽपि हि सम्पदन्त्यविकलं विकलङ्करमापदम् ॥१॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy