________________
१७०
श्रीजेनस्तोत्र सन्दोहे
[ श्रीभुवनसुन्दर
ख्यातस्ते धरणीधरः प्रविलसन् यत्रैष चिन्तामणिस्त्वं नाथ ! प्रथंयस्यभीष्टमखिलं कालेऽधुनाप्यङ्गिनाम् ॥ १३॥ कोर्त्तिस्तम्भयुगं पदौ विजयिनौ धर्मस्य कल्पद्रुमौ
पाणी तत्सरलाङ्गुलीततिरियं स्वः शाखिनां पल्लवाः । स्कन्धौ बन्धुरशातकुम्भकलशौ सौवर्णपट्टोहि त्
कण्ठः कम्बुरयं स्वशब्दविधिना विश्वस्य कल्याणकृत् ॥ १४ ॥ चन्द्रः सान्द्ररुचिर्मुखं नयनयोर्युग्मं नवाम्भोरुहं
कर्णौ काञ्चनशुक्ति मुकरयोर्द्वन्द्वं कपोलस्थली |
नाशाम्भोरुहनालमद्भुतमिति त्वद्रूपलक्ष्मी प्रभो !
प्रातर्मङ्गलकारिणीं प्रतिदिनं पश्यन्ति धन्या जनाः || १५ || युग्मम् कालेऽस्मिन् भवसम्भवश्रमभरैरापीड्यमानाङ्गिनां
स्वामिंस्त्वं निजदर्शनामृतरसैरानन्दनिस्यन्दिभिः । तापव्यापमपाकरोषि सकलं वीक्ष्येति भूमण्डलात्
स्वः पातालतले सुधाप्यचकलन्निर्हेतुकावस्थितिम् ॥१६॥ त्वं भक्तिप्रणमन्नरासुरसुराधीशायमानः प्रभो !
तापं खण्डयसि प्रचण्डमधि यज्जाड्यं च जन्मस्पृशाम् । तस्मात् तद्घटने पटुत्वकमलामालिङ्गमानाविभौ
सूर्याचन्द्रमसौ त्वदीयतुलनामासादयेतां कथम् ? ॥ १७ ॥ रत्नालङ्कृतिभारिणी नयनयोर्नव्यामृतोद्गारिणी
मान्मोहविदारिणी स्फुरदुरुज्योतिः कलाधारिणी ।
स्फूर्जन्मङ्गलकारिणी त्रिजगतामानन्दविस्तारिणी
मूर्तिस्तेऽनिवारिणी जिनपते ! दत्ते मनोवाञ्छितम् ॥ १८ ॥