________________
सूरिसूत्रितम् ] श्रीधर्मोज्ज्वलनैकमण्डलमिलन्मानातिगप्राणिनां
माद्यद् दुष्कृतमण्डलं कुलमिव क्रीडत्कुरङ्गावले: । मन्ये त्रासयितुं त्वदीयभवनद्वाराङ्गणे रङ्गतो
व्याघ्रीयं स्थितिमादधाति सकलप्राचीनवर्हिः स्तुत ! ॥८॥ राष्ट्राणि प्रचुराण्यपीह भुवने जाप्रत्युदप्रश्रिया
नैकस्यापि परं सुशब्दघटना प्राग् जाघटीति प्रभो ! | किन्त्वे तज्जगदभुतां सुभगतालक्ष्मीं समासीसदत् त्रैलोक्याभरणेन देव ! भवता ख्यातं सुराष्ट्रेत्यतः ॥ ९ ॥ स्वामिंस्त्वन्मुखमण्डलोल्लसितरुपूरैः प्रभातोदये
स्पृष्टा ये न हि दुर्गतिं स्पृशति तान् वन्दारुजन्तूनिह । ये वोचत्प्रबलप्रतापतपनोद्दीप्रप्रभा चक्रकैः
श्रीशत्रुञ्जयस्तवनम् ।
१६९
श्लिष्टाः श्लिष्यति तान् किमनघनश्यामा तमिश्रावली ॥ १० ॥ मन्ये सिद्धरसः प्रसिद्धमहिमा स्वामिंस्त्वदीयोल्लसत्पादाम्भोरुहसम्भवद्दशनखप्रेमविषां मण्डलम् ।
मत्स्पृष्टाः किल कोटिशोऽपि मनुजाः कल्याणलक्ष्मी नवामासाद्याभरणीभवन्ति भगवन् ! सिद्धयङ्गनाया यतः ॥११॥ पीयूषद्रववर्षणं नयनयोस्त्वद्वक्त्रसंवीक्षणं
सञ्जातं प्रकरोति देव ! भगवन् ! भाग्योत्तमत्वं मयि । किं नोल्लासयति प्रकाशितजगचित्तो वसन्तोत्सवः
क्रीडत्कोकिलमण्डलीषु मधुरारावस्य लीलायितम् ॥१२॥ नान्यो रत्नमहीधरोऽस्ति भुवने सोऽप्यस्तु वा किं सता तेन प्रस्तरखण्डमण्डितभुवा रत्नाचलः किन्त्वयम् ।