________________
२६८
श्रीजैनस्तोत्रसन्दोहे
[श्रीभुषनसुन्दर
आनन्दाम्बुधिना च मेऽद्य भगवन् ! कल्लोललीलायित ..
त्वद्वक्त्रामलचन्द्रमण्डललसद्भामण्डलेक्षोत्सवे ॥ २ ॥ त्वद्यात्रागतदेहिनां गजपतेः स्कन्धाधिरूढा सती
त्वन्मातव समग्रपापपटलं बेभियते प्रागपि ।। तेन त्वं जगतां पते ! किल कलप्रासादमध्यस्थितो __ध्यानासीन इवेक्ष्यसे विगततच्चिन्ताचयः प्राणिमिः ॥३॥ चेतश्चिन्तितदानदेवततरुः श्रीकपर्दीश्वर
स्त्ववक्षाधिप एव देव ! सकलान् विघ्नानिजेनोयते । यत्प्रागेव समग्रयात्रिकजनवातस्य रात्रिंदिवं
तव्यापारविधौ समस्तु भगवंतत्ते कुतस्त्यः श्रमः ! ॥ ४ ॥ त्वत्प्रासादशिरोऽधिरुह्य भगवन् ! दोकूल एष ध्वजः
प्रान्तालिङ्गितकिङ्किणीक्वणनिभाद् ब्रूते किलेतद्वचः । हे लोका ! यदि सिद्धिनामकपुरी द्रष्टुं समुत्कण्ठते
चेतस्तत्तदधीश्वरं जिनममुं सेवध्वमत्यादरात् ॥ ५ ॥ स्वामिस्ते गगनामलग्नशिखरः प्रासाद एव ध्रवं - हन्तुं पापभटानतीव विकटान् यद् गाढबद्धोधमः । दण्डं चण्डममुं विभर्ति तंदयं तत्खण्डनायोत्कटं
तबन्धाय च पाशमप्यतिलसल्लम्बध्वजव्याजतः ॥ ६॥ देव ! त्वन्मुखवीक्षणक्षणभवद्रोमाचसंवर्मित.
बैलोक्योत्कटरागमुख्यसुभटान् शत्रन् यदत्राणभृत् । ध्यानावेण जयत्यहर्निशमतः शत्रुनयेत्याख्यया
विख्यातस्तव भूधरोऽपि भगवन् ! लोकाग्रचूडामणे ! ॥७॥