SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सूरिसूत्रितम् ] श्रोशम्भवजिनस्तवनम् । १६७ ददात्यङ्गिनां देव ! सर्वार्थसिद्धिं हरस्युप्रमिथ्यात्वमायादिबुद्धिम् । अतोऽभीष्टदो यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥७॥ प्रभो ! देवरत्नं मया लब्धमय समासादितः कल्पवृक्षोऽपि सद्यः । यतः प्रापि भाग्योदयैर्भद्रवन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥८॥ चाम्पानेरपुरावतंसविशदः श्रीपावकाद्रौ स्थित सार्व शम्भवनायकं त्रिभुवनालङ्कारहारोपमम् । इत्थं यो गुरुभक्तिभावकलितः संस्तौति तं वृण्वते ताः सर्वा अपि मङ्गलोत्सवरमाभोगान्विताः सम्पदः ॥९॥ इति श्रीपावकदुर्गमण्डनश्रीशम्भवजिनस्तवनम् । श्रीभुवनसुन्दरसूरिविरचितम् । [४०] श्रीभुवनमुन्दरसूरिसूत्रितं श्रीशत्रुञ्जयस्तवनम् । श्रीशत्रुञ्जयशैलभासुरशिरःशृङ्गारचूडामणे ! श्रीनामेय! जगन्मनोऽम्बुजवनग्रहलादनाहर्मणे!। 'रम्यां सिद्धिवधू वुवूर्परखिलं पापं जिहीनिज त्वामज्ञोऽपि निनीषुरस्मि भगवन् ! मार्गे गिरां किश्चन ॥१॥ भाग्यैरुत्पलमण्डलैरिव जगद्भर्त्तः ! समुन्मीलितं प्रौढप्राच्यभवार्जितैर्मुकुलितं पापैः सरोजैरिव ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy