________________
श्रीजैनस्तोत्रसन्दोहे [श्रीजिनसमुद्रय एव निध्यायति मानसस्थमन्तर्दशा त्वां जिनराजहंसम् । स एव साक्षात्कुरुते समग्रं लीलायितं सद्गतिसम्पदस्ते ॥ ८॥ जगन्मतं त्वन्मतमत्र येषां न सम्मतं हन्त हताशयानाम् । प्रभातविद् घूकविहङ्गमानां हि केवलालोकबहिःस्थितास्ते ॥९॥ क्षुद्राशयैः कैश्विदनाश्रितस्याप्यादेयता देव ! न हीयते ते । किं मक्षिकोपेक्षितचन्दनस्य प्रयाति सौरभ्यगुणः कदापि ? ॥१०॥ जगद् गुरो ! गौरवमेव तत् ते कुदृष्टिभिर्न प्रतिपद्यसे यत् । न येन तेनाभरणीकृतस्य महाप्रताऽपैति महामणेः किम् ॥ ११ ॥ कुदृष्टिरागग्रहिला वराका ये त्वां जगन्मित्रममित्रयन्ति । ते कल्पवृक्षं विषवृक्षयन्ति चिन्तामणि कर्करयन्ति मूढाः ॥ १२ ॥ त्वदास्यलावण्यवरेण्यलक्ष्मी निरीक्ष्य नेत्राणि समुल्लसन्ति । हर्षप्रकर्षेण सदृष्टिभाजां चकोरकाणामिव चन्द्रलेखाम् ॥ १३ ॥ त्वत्पादसेवारसिकं मनो मे नाऽन्यत्र तोषं लभते हरादौ । विहाय वा मञ्जरिमञ्जुमानं किं कोकिलः क्रीडति कर्णिकारे ? ॥१४॥ निशम्य कर्णामृतमहतो वचो न रोचते मे कुवचः कुतीथिनाम् । निपोय को वा मधुरं गवीपयः पिपासति क्षीरमिहार्कशाखिनः ॥१५॥ अशोऽङ्करक्षयभगन्दरदुष्टकुष्टमुख्या रुजः क्षयमयन्ति तव प्रसादात् । सर्पन्ति सर्पनिवहा भुवि तावदेव यावन हि स्फुरति गारुडपक्षवातः।। शार्दूलपन्नगमतङ्गजचौरमुख्याः स्वाध्यायतो नहि पराभवितुं क्षमन्ते । किं कान्तिमन्मणिशशिप्रमुखान् पदार्थान् व्याप्नोति सान्द्रमपि
सन्तमसं कदाचित् ॥ १७ ॥