SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ AAAAAA श्रीजैनस्तोत्रसन्दोहे [ श्रीभुवनसुन्दरमणिमयकपिशीर्षकालिरुधत्किरणगणागुरुवप्रशीर्षसंस्था । मुकुरति गगनस्पृशां सुरीणां वदनविलोकविधौ सदापि यत्र ॥२१॥ मणिमयभुवि बिम्बितं निरीक्ष्यामरनिकरं किमु नः पुरीजिघृक्षुः । प्रचलति सुरसार्थ एष इत्याकुलहृदयोऽजनि यत्र दैत्यवर्गः ॥२२॥ योन्दुकान्तमयभूमिषु चन्द्रकान्त्याश्लेषाद्रवामृतरसैर्वचनैश्च तेऽर्हन् ।। पद्भ्यो हृदोऽपि च चलन्मृगलोचनानां रागः प्रयात्यविकलो मलवज्जलेन ॥ २३॥ द्वारेषु मौक्तिकमयीः प्रतिबिम्बभाजो माला विलोक्य मणिभू षु सितेतरासु । सस्ता किमस्मदुरुहारलतेति यस्यामत्याकुला मृगदृशो हृदयं स्पृशन्ति ॥ तोरणस्थाशतिरुहमणिमालां बिम्बितां स्फटिकभूमिषु यत्र । वीक्ष वातचपलां चलतोऽहे तितोऽतितरला महिलाः स्युः ॥२५॥ स्फटिककुट्टिमकोटितटोलुठद्विविधनीलमणीननणीयसः । समवलोक्य हरित्तणवाञ्छया यदुपरि त्वरिता हरिणा न के ॥२६॥ हर्षोत्कर्षवशप्ररूढरभसप्रारब्धनाट्यक्रिया___ भ्रश्यन्निर्मलहारमौक्तिकगणं यं पातयाञ्चक्रुषी । पौलोमी पुलकोल्लसत्तनुलता विश्वेश्वर ! त्वत्पुर__ स्तस्या यत्र स एव बीजति महानन्दद्रुमोद्भूतये ॥ भक्त्याविष्कृतभावभासुरनरस्वर्वासिनां सन्तते रुद्गच्छत्पुलकप्रवर्द्धिततनौ चित्तेऽपि यस्यां मुहुः । स्वामिस्तेऽनितिविष्टविस्फुटनखप्रोद्यद्रुचां मण्डलं न्याहाराश्च मनोहराः सततमप्युयोतमातन्वते ॥ २४॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy