________________
सरिप्रणीतम् ] श्रीजीराउलापार्श्वस्तवनम् ।
१६३
उडुततिरवतीर्णा किं नु यत्र त्वदीय
___स्फुरदुरुतरकीर्त्या स्फूर्तिमत्या जितेयम् ॥ १५ ॥ अयमिव जिनभर्ता दुःखहर्ता सुसम्प
न्मयशिवपदकर्ता वर्ततेऽन्यो न कश्चित् । इति वदति नभःस्थो दुन्दुभिस्ते पुरस्ता
ज्जिन ! जलधरगजि तर्जयन् यत्र नादैः ॥ १६ ॥ विलसदमृतधाराः किं पिबाम्येष हर्षा
न्मधुरतरपयो वा कामधेनुस्तनोत्थम् । इति जननिकरेण ध्यायताऽपायि यस्यां
पुलकिततनुभाजा नाथ ! गौस्तावकीना ॥ १७ ॥ मोहाह्वभूपतिरयं जगतामसाध्यो
ऽसाधि त्वया मदनमुख्यभटैर्युतस्तत् । उत्तम्भितस्तव पुरः सुरसेव्य ! यस्या
मिन्द्रध्वजस्य मिषतो विजयध्वजोऽयम् ॥ १८ ॥ धैर्येणाधरितेन मेरुगिरिणा सर्वसहत्वेन वा
पृथ्च्या निर्जितया स्वरत्ननिचयः प्रादायि यस्ते विभो !। तेजःश्रीभिरपाकृतैनिकरैर्यद्वा रुचां मण्डलं ।
तैरेतद् विदधे किमित्यविरतं यत् तय॑ते कोविदः ॥१९॥ तद्धर्मचक्र भगवस्तवाने देदीप्यते दीप्तिविराजि यत्र । श्रीतीर्थलक्ष्मीललनाललाटे ललामशोभा प्रथयत् सदापि ॥ २० ॥
॥ युग्मम् ॥