________________
श्रीजैनस्तोत्रसन्दोहे [श्रीमुवनसुन्दर
तवैव भक्तिर्जिन ! भुक्तिमुक्तिहेतुर्न रेष्वेव च सा समप्रा । ध्यान्वेति देवा मनुजावतारं मनोहरं न स्पृहयन्ति के के ? ॥६॥ प्रभो! त्वदाज्ञावरहारवल्ली विभूषणं यस्य हृदो बभूव । सौभाग्यभङ्गीसुभगं वृणीते तं सिद्धिलक्ष्मीरपि दुर्लभा सा॥ ॥ तदेव वर्षे गुरुहर्षहेतुः स एव मासः सुखसन्निवासः। दिनं घनांहोमथनं तदेव त्वं वीक्ष्यसे यत्र विभो ! जितात्मा ॥८॥ रत्नानि रोहणगिरेः कनकानि मेरो रूप्यानि च प्रवररूप्यगिरेर्गृहीत्वा । सालत्रयं प्रवररत्नमयं नु यस्यां देवैस्तवेश ! रचितं निचितं महोमिः॥ यस्यां तवोपरि परिस्फुटचन्द्रकान्तचन्द्रेशचन्द्रकरशुभ्रमदभ्रमूर्ति । छत्रत्रयं प्रवरमौक्तिकरत्नराजिविभ्राजि राजति तवोज्ज्वलकीर्तितुल्यम् ।। तापप्रचारशमनः मुमनोनिषेव्यः पादैः पवित्रतधरो नृसुरप्रमोदी। स्कन्धश्रिया प्रवरयाऽतिविराजमानश्चैत्यद्रुमस्त्वमिव देव ! विभाति
यस्याम् ॥ ११ ॥ भास्वन्मणीमयमुदारतरप्रभाम्भः पद्मीभवत्प्रणतदेवकिरीटकोटि । भाति त्वदीयवपुषांशुपुषा हि यस्यां सिंहासनं स्फुटरुचा मणिनेव मौलिः।। सुरासुरैनिर्मितदण्डमण्डितः सच्चामरैः शुभ्रतरैः प्रवीजितः । त्वं राजसे यत्र जगत्पते ! यथा सौदामिनीदामविराजिताम्बुदः ॥१३॥ तेजःश्रिया निर्जितभानुमण्डलं त्वद्रूपलक्ष्म्याः किल कर्णकुण्डलम् । प्रमोदिताखण्डलमण्डलं मुहुर्भामण्डलं राजति यत्र ते विभो ! ॥१४॥
सुरनिकरकराग्रसस्तमन्दारजाति__प्रमुखकुसुमवृष्टेर्दम्भतः सेवितुं त्वाम् ।