SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम्] श्रीजीराउलापार्श्वनाथस्तवनम् । १६१ इत्थं श्रीश्रितकुल्पपाफनगरालकारचूडामणि श्रीमन्नाभिनरेन्द्रवंशकमलप्रोल्लासनाहर्मणिम् । यः श्रीआदिजिचं निरस्तवृजिनं तोष्ट्रयते भक्तिभाक् वृण्वन्ति जगत्त्रयाद्भुतरमा रामा इवोत्कण्ठिताः॥१६॥ इति श्रीकुल्पपाकतीर्थ श्रीऋषभजिनस्तवनम् । श्रीश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिकृतम् ।। (३८) श्रीभुवनसुन्दरमूरिप्रणीतं श्रीजीराउलिमण्डनपार्श्वनाथस्तवनम् । श्रियोऽभिवृद्धिं विजयोत्सवांश्च यस्यानुभावाल्लभते जनोऽयम् । जीराउलीमण्डनपार्श्वनाथं स्तोष्ये प्रभुं तं किमपि स्वभक्त्या ॥१॥ प्रह्वो भवेनैव सहस्रजिह्वो न वाक्पत्तिः सन्मतिभाजनं सः । । त्ववर्णनायां तदपि प्रभो ! मां भक्तिस्तवैषा तरलीकरोति ॥२॥ रमापतिः प्रागरमोऽपि भाग्यैस्त्यक्तोऽपि भाग्याभ्युदयप्रधानः । आरोग्यवान् रोगयुतोऽपि सद्यस्त्वदर्शनादेव भवेन्नरोऽयम् ॥३॥ अकीर्तिरप्युज्ज्वलकीर्तिलक्ष्मी रूपश्रियं रूपविवर्जितोऽपि । अबुद्धिरप्यद् भुतबुद्धिसिद्धिमासादयेदेव ! तव प्रसादात् ॥१॥ कल्पद्रुलम्भः शुभकामकुम्मश्चिन्तामणि म महामणिश्च । यत्नैव दातुं प्रभवो भुवोऽपि ददासि सधस्तदपि प्रभो ! त्वम् ॥५॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy