SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीजीराउलापार्श्वस्तवनम् । इति विविधविकल्पांस्तन्वती कोविदानां समवसरणभूमिः कस्य न स्यान्मुदे सा । जिनवर ! तव यस्याः श्रीविशेषावलोकाद्भवति तदपि नूनं स्वर्विमानं विमानम् ॥ २९ ॥ किन्नर्यो गिरिकन्दरेषु महिला भूवल्लभानां क्षितौ पाताले दनुजस्त्रियः सुरवधू वृन्दानि देवालये । व्यन्तर्यो विविधाश्रयेषु भगवन् ! सङ्ख्यातिगांस्ते गुणान् वीणावेणुवरकणातिमधुरं गायन्ति रात्रिन्दिवम् ॥ ३० ॥ मोहद्रोह दामहमदोन्मादप्रमादस्फुर लोभक्षोभमुखान्तरारिनिकरैः पीडां परां प्रापितः । स्वास्त्विां शरणं श्रितोऽस्मि जगतां दुःखक्षयायैव यन्मुक्तिस्थोऽप्यवतीर्णवानसि भुवं त्वं विश्वविश्वेश्वरः ॥ ३१ ॥ निर्नीरेऽम्बुरुहं मरौ सुरनदी दौस्थ्ये सुरदुः कुहू तम्यां पूर्णनिशाकरो हिमभरे मध्यान्हभानूदयः । त्यद्भुतराज्यमापदि महासम्पत्प्रकर्षः कलौ कालेऽस्मिन्नपि यज्जगन्नयपते ! त्वदर्शनं देहिनाम् ||३२|| सौधे लक्ष्मीरगण्या पटुकरटिघटा वाजिनः स्वर्णभूषा आयुः प्रौढं प्रभुत्वं विमलतरयशो व्यापदः सम्पदान्यः । रूपं चातुल्यरूपं त्वदमलचलनोपासना कल्पवल्ले: पुष्पाण्येतानि विश्वाधिप ! शिववनितास्वामिता फलंतु ॥ ३३॥ श्रीजी पल्लिदेव ! त्रिजगदधिपते । प्राज्यराज्यादिलक्ष्मीदातस्तात ! त्वदीयामलचलनयुगोपासनावासनातः । १६५
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy